|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.110. अध्यायः 110
Mahabharata - Udyoga Parva - Chapter Topics
गरुडेन गालवंप्रति पश्चिमदिग्गुणवर्णनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text
सुपर्ण उवाच। 5-110-0x(3716)(35606)
इयं दिग्दियिता राज्ञो वरुणस्य तु गोपतेः ।
सदा सलिलराजस्य प्रतिष्ठा चादिरेव च ॥ 5-110-1(35607)
अत्र पश्चादहः सूर्यो विसर्जयति गाः स्वयम् ।
पश्चिमेत्यभिविख्याता दिगियं द्विजसत्तम ॥ 5-110-2(35608)
यादसामत्र राज्येन सलिलस्य च गुप्तये ।
कश्यपो भगवान्देवो वरुणं स्माभ्यषेचयत् ॥ 5-110-3(35609)
अत्र पीत्वा समस्तान्वै वरुणस्य रसांस्तु षट् ।
जायते तरुणः सोमः शुक्लस्यादौ तमिस्रहा ॥ 5-110-4(35610)
अत्र पञ्चात्कृता दैत्या वायुना संयतास्तदा ।
निश्चसन्तो महावातैरर्दिताः सुषुपुर्द्विज ॥ 5-110-5(35611)
अत्र सूर्यं प्रणयिनं प्रतिगृह्णाति पर्वतः ।
अस्तो नाम यतः सन्ध्या पश्चिमा प्रतिसर्यति ॥ 5-110-6(35612)
अतो रात्रिश्च निद्रा च निर्गता दिवसक्षये।
जायते जीवलोकस्य हर्तुमर्धमिवायुषः ॥ 5-110-7(35613)
अत्र देवीं दितिं सुप्तामात्मप्रसवधारिणीम् ।
विगर्भामकरोच्छक्रो यत्र जातो मरुद्गणः ॥ 5-110-8(35614)
अत्र मूलं हिमवतो मन्दरं याति शाश्वतम् ।
अपि वर्षसहस्रेण न चास्यान्तोऽधिगम्यते ॥ 5-110-9(35615)
अत्र काञ्चनशैलस्य काञ्चनाम्बुरुहस्य च।
उदधेस्तीरमासाद्य सुरभिः क्षरते पयः ॥ 5-110-10(35616)
अत्र मध्ये समुद्रस्य कबन्धः प्रतिदृश्यते।
स्वर्भानोः सूर्यकल्पस्य सोमसूर्यौ जिघांसतः ॥ 5-110-11(35617)
सुवर्णशिरसोऽप्यत्र हरिरोम्णः प्रगायतः ।
अदृश्यस्याप्रमेयस्य श्रूयते विपुलो ध्वनिः ॥ 5-110-12(35618)
अत्र ध्वजवती नाम कुमारी हरिमेधसः।
आकाशे तिष्ठतिष्ठेति तस्थौ सूर्यस्य शासनात् ॥ 5-110-13(35619)
अत्र वायुस्तथा वह्निरापः खं चापि गालव ।
आह्निकं चैव नैशं च दुःखं स्पर्शं विमुञ्चति ॥ 5-110-14(35620)
अतःप्रभृति सूर्यस्य तिर्यगावर्तते गतिः।
अत्र ज्योतींषि सर्वाणि विशन्त्यादित्यमण्डलम् ॥ 5-110-15(35621)
अष्टाविंशतिरात्रं च क्रम्य सह भानुना।
निष्पतन्ति पुनः सूर्यात्सोमसंयोगयोगतः ॥ 5-110-16(35622)
अत्र नित्यं स्रवन्तीनां प्रभवः सागरोदयः ।
अत्र लोकत्रयस्यापस्तिष्ठन्ति वरुणालये ॥ 5-110-17(35623)
अत्र पन्नगराजस्याप्यनन्तस्य निवेशनम् ।
अनादिनिधनस्यात्र विष्णोः स्थानमनुत्तमम् ॥ 5-110-18(35624)
अत्रानलसखस्यापि पवनस्य निवेशनम्।
महर्षेः कश्यपस्यात्र मारीचस्य निवेशनम् ॥ 5-110-19(35625)
एष ते पश्चिमो मार्गो दिग्द्वारेण प्रकीर्तितः।
ब्रूहि गालव गच्छावो बुद्धिः का द्विजसत्तम ॥ ॥ 5-110-20(35626)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि दशाधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-110-1 गोपतेः दिक्पालस्य ॥ 5-110-2 अह्रः पश्चाद्भागे गाः रश्मीन् विसर्जयति। अतएव पश्चिमा । 5-110-5 पश्चात्कृताः वेगेन पृष्ठतः कृताः ॥ 5-110-9 मन्दरं समुद्रे मग्नम्। एतेन हिमवन्मूलस्य समुद्रजलस्य चाप्रमेयत्वमुक्तम् ॥ 5-110-10 काञ्चनमयानि अम्बुरुहाणि यत्र तस्य उदधेः समुद्रतुल्यस्य सरसः ॥ 5-110-12 सुवर्णशिरसो मुनेः। हरिरोम्णः अपलितस्य नित्यतरुणस्येत्यर्थः ॥ 5-110-13 हरिमेधसो मुनेः कुमरी। तिष्ठतिष्ठति सूर्यस्य शासनात् ॥ 5-110-14 वाय्वादयोऽत्र दुःखदं शीतोष्णस्पर्शं विमुञ्चन्ति। सदा सुखसंस्पर्शा एवेत्यर्थः ॥ 5-110-16 सोमसंयोगयोगतः सोमसंयोगसदृशाद्योगात् ॥ 5-110-17 स्रवन्तीनां नदीनाम्। सागरस्य उदयः पूर्तिर्येन तादृशः प्रभवः ॥ 5-110-20 दिगद्वारेण संक्षेपप्रकारेण ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|